सः एतमेव पुरुषं...

विकिसूक्तिः तः

सः एतमेव पुरुषं ब्रह्म ततमम् अपश्यत् इदमदर्शमिति । - ऎतरेयोपनिषत् १-३-१३

सः एतमेव पुरुषं 'ब्रह्म ततमम्, अहो, अहम् अपश्यम्' इति ज्ञातवान् ।

सः परमात्मा इदं शरीरं प्रविश्य जीवरूपेण अवभासते । अयं इमं पुरुषमेव ब्रह्म ज्ञातवान् ।
स एव परिपूर्णः परमेश्वरः अनेन परिच्छिन्नेन जीवरूपेण अवभासते इत्यर्थः ॥

अस्मिन् मन्त्रे परस्य ब्रह्मणः ‘ततमम्’ इति विशेषणं दत्तमस्ति । ‘तततमम्’ (व्यापकम्)
इति वक्तव्ये सति ‘ततमम्’ इति अत्र उपदिष्टमस्ति । ततमम् इति तततमम् इत्यर्थः ।
एकः तकारः लुप्तो वेदितव्यः । परमात्मा हि सम्पूर्णमेव विश्वं व्याप्य स्वयं परिपूर्णो विराजते ।
परमात्मना अव्याप्तः पदार्थो नाम नास्ति इत्यर्थः । नीचोपाधेः उच्चतमोपाधिपर्यन्तं समानतया
परिपूर्णो हि आत्मा । परमात्मा आकाशवत् व्यापकः । सर्वम् आप्नोति इत्यात्मा ।
अतः आत्मा तततमः । ब्रह्मैव हि आत्मा ॥

"https://sa.wikiquote.org/w/index.php?title=सः_एतमेव_पुरुषं...&oldid=16275" इत्यस्माद् प्रतिप्राप्तम्