सर्वं ह्येतद् ब्रह्म...

विकिसूक्तिः तः

सर्वं ह्येतद् ब्रह्म, ‘अयमात्मा ब्रह्म’ । - माण्डूक्योपनिषत् २
इदं सर्वं ब्रह्मैव, अयमात्मा ब्रह्म ।

प्रसिद्धेषु चतुर्षु महावाक्येषु ‘अयमात्मा ब्रह्म’ इतीदं महावाक्यम् अन्यतमम् । अथर्ववेदस्य ‘महावाक्य’मेतत् ।
जीवब्रह्मणोः अभेदोपदेशकानां वाक्यानां महावाक्यमिति प्रसिद्धिः । प्रतिवेदम् एकैकं महावाक्यं प्रसिद्धम् । एवं
च चतुर्णां वेदानां चत्वारि महावाक्यानि प्रथितानि सन्ति । ऋग्वेदीय ऎतरेयोपनिषदः- ‘प्रज्ञानं ब्रह्म’; यजुर्वेदीय
बृहदारण्यकोपनिषदः – ‘अहं ब्रह्मास्मि’; सामवेदीय छान्दोग्योपनिषदः – 'तत्त्वमसि’ ; अथर्ववेदीयमाण्डूक्योपनिषदः –
‘अयमात्मा ब्रह्म’ इति चत्वारि महावाक्यानि ॥

प्रकृतं तु ‘अयमात्मा ब्रह्म’ इति महावाक्यम् । अस्मिन् देहे कर्तृत्वेन भोक्तृत्वेन च दृश्यमानः अयं प्रसिद्धः जीवः
निरुपाधिकदृष्ट्या ब्रह्मैव । अविद्यया एव हि जीवत्वं नाम । जीवत्वे विद्यया बाधिते सति ब्रह्मस्वरूपमेव अवशिष्यते ।
अविद्याकल्पितं जीवत्वम् अनूद्य, अनन्तरं ब्रह्मत्वं प्रतिपाद्य, जीवत्वबाधनमेव महावाक्यानां फलम् ॥

"https://sa.wikiquote.org/w/index.php?title=सर्वं_ह्येतद्_ब्रह्म...&oldid=16538" इत्यस्माद् प्रतिप्राप्तम्