सर्वभूतस्थमात्मानं...

विकिसूक्तिः तः

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन् ब्रह्म परमं याति नान्येन हेतुना ॥ - कैवल्योपनिषत् १-१०

आत्मानं सर्वभूतस्थम्, आत्मनि च सर्वभूतानि सम्पश्यन् परमं ब्रह्म याति; अन्येन हेतुना
मार्गेण परमं ब्रह्म न याति ।

‘सम्यग्दर्शनं’ नाम किम् ? इति चेत्, अयं मन्त्रः सरलतया सुन्दरतया उपदिशति । आत्मनि
सर्वभूतानाम्, सर्वभूतेषु च आत्मनः दर्शनमेव सम्यग्दर्शनं नाम । इदमेव समात्मदर्शनम् समात्मज्ञानम्,
ब्रह्मज्ञानमिति च कथ्यते ॥

अस्तु, ज्ञातम् । ईदृशं सम्यग्दर्शनं प्राप्तुं शक्यते वा ? किं वयमपि प्राप्नुयाम ? सत्यं शक्यत एव ।
अस्यैव ‘सर्वात्मभावः’ इत्यपि नाम भवति । नैतत् सम्यग्दर्शनं प्रत्यक्षप्रमाणैः अवगन्तुं शक्यते ।
नात्मा चक्षुर्भ्यां दृश्येत । उपाधिसहिताः पदार्थाः समाः न भवन्ति हि । किं तु विवेकेन विवेक्तव्यमेतत् ।
उच्चनीचोपाधीन् विहाय विवेकेन विचारे कृते 'एक एव आत्मा सर्वेष्वपि अस्ति' इतिसन्देशः अनुभवम्
आरोहति । इदमेव सम्यग्दर्शनरहस्यम् ॥

"https://sa.wikiquote.org/w/index.php?title=सर्वभूतस्थमात्मानं...&oldid=16351" इत्यस्माद् प्रतिप्राप्तम्