सर्वव्यापिनमात्मानं...

विकिसूक्तिः तः

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥ - श्वेताश्वतरोपनिषत् १-१६

क्षीरे घृतमिव अस्मिन् विश्वे आत्मा सर्वव्यापकः । आत्मानम् विज्ञातुं तप एव साधनम् ?
आत्मा च ब्रह्म । मानवजन्मनः रहस्यं सारभूतं लक्ष्यमिदम् ॥

आत्मा कुत्रास्ति ? सर्वत्राप्यस्ति । तर्हि किमर्थं न दृश्यते ? तं द्र्ष्टुम् अस्माकं योग्यताभावात् ।
आत्मदर्शनयोग्यता तर्हि कथं सम्पादनीया ? तपसा । तपसि सर्वाण्यपि साधनानि अन्तर्गतान्येव ।
अन्तः करणस्य एकाग्रतायै, मनसः शुद्ध्यै, आत्मज्ञानयोग्यतायै क्रियमाणानि सर्वाण्यपि साधनानि
तपः शब्देन गृह्यन्ते ॥

विद्यमानस्यैव वस्तुनः तपसा प्राप्तिर्भवति । अस्य प्रकाशनाय एकः दृष्टान्तः । क्षीरे घृतम् अस्ति वा
न वा ? अस्ति । कस्मिन् भागे ? सर्वत्रापि अस्ति । तथापि किमिति अस्माकं न दृश्यते ? साधनाभावात् ।
तत्र क्षीरे दध्यातञ्चनं निक्षिप्य, दधि कृत्वा अनन्तरं तस्य मथनमेव तपः । एवमेव अत्रापि इन्द्रियमनसोः
एकाग्रता एव तपः । तेन तपसा साधनेन आत्मदर्शनं भवति ॥