सानुजः काननं गत्वा...

विकिसूक्तिः तः

सानुजः काननं गत्वा यातुधानान् जघान कः ?
मध्ये वर्णत्रयं दत्त्वा रावणः कीदृशो वद ॥

अनुजेन सह अरण्यं गत्वा राक्षसानां संहारं कः कृतवान् ? तस्य शब्दस्य मध्यभागे
अक्षरत्रयं योजयित्वा रावणः कीदृशः इति वदतु ।

उत्तरम्

राक्षसोत्तमः
"https://sa.wikiquote.org/w/index.php?title=सानुजः_काननं_गत्वा...&oldid=3969" इत्यस्माद् प्रतिप्राप्तम्