अथात आदेशो ‘नेति नेति’...

विकिसूक्तिः तः

अथात आदेशो ‘नेति नेति’ न ह्येतस्मादिति नेति, अन्यत् परमस्ति । - बृहदारण्यकोपनिषत् २-३-६

अथ ब्रह्मणः आदेशः ‘नेति नेति’ इति । एतस्मात् आदेशात् अन्यः मार्गः नास्ति । अन्यः उपदेशक्रमो नास्ति ॥

परं ब्रह्म ज्ञापयितुं वेदान्तदर्शनस्य बीजमन्त्रोऽयम् । ‘नेति नेति’ इति हि परब्रह्मोपदेशक्रमः । परिपूर्णत्वात्
निरुपाधिकत्वात् सर्वविशेषणरहितत्वाच्च परं ब्रह्म ‘नेति नेति’ क्रमं विहाय नान्येन मार्गेण विज्ञापयितुं शक्यते ॥

परब्रह्मस्वरूपं विज्ञातुं ‘नेति नेति’ इत्येव मार्गः । न इति, न इति इतिक्रमेणैव ब्रह्म ज्ञापयेत् । ‘न इति’ इत्येतत् ‘इति न’
इति परिवर्तयेत् । इदं न ब्रह्म, एवं न ब्रह्म इत्येव उपदिशेत् । ब्रह्म न शुक्लम्, न कृष्णम्, न स्थूलम्, न अणु, न दीर्घम्,
न ह्रस्वम्, न कारणम्, न च कार्यम् इत्येव जानीयात् । तर्हि ब्रह्म किं शून्यम् ? इति चेत् तदा द्वितीयः ‘नेति’ कारः ।
न च ब्रह्म शून्यमपि भवति । एवं ‘नेति नेति’ इति अध्यारोप-अपवादक्रमेणैव परं ब्रह्म ज्ञापयेत् ।