सुभाषितरत्नभाण्डागारम् (३ राजप्रकरणम्)

विकिसूक्तिः तः
राजसभावर्णनम्

सभाकल्पतरुं वन्दे वेदशाखोपशोभितम्।
शास्त्रपुष्पसमाकीर्णं विद्वद्भ्रमरमण्डितम्॥१॥
विद्वांसः कवयो भट्टा गायकाः परिहासकाः।
इतिहासपुराणज्ञाः सभा सप्ताङ्गसंयुता॥२॥


राजमिलनम्
क्षुत्क्षामार्भकसंभ्रमोक्तिनिगडैः किर्मीरिता नर्मतो भार्याक्रन्दितकुन्तकीलितहृदो गर्वाद्गुरुत्वं गतः।
प्रभ्रष्टाः पदतः कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषां वरा वयमहो त्वां द्रष्टुमभ्यागताः॥१॥

सामान्यराजप्रशंसा
राजंस्त्वद्दर्शनेनैव गलन्ति त्रीणि तत्क्षणात्।
रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्धो मृगीदृशाम्॥१॥
चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम्।
तन्मे सफलमद्यासीन्नेत्रंत्वय्यवलोकिते॥२॥