सूक्तयः (अकारादिः)
दिखावट
लौकिकसूक्तयः
[सम्पाद्यताम्]- अग्ने: खरतरादेव लोहं दृढतरं भवेत्।
- अग्नेरभ्यागतो मूर्तिः ।
- अङ्गीकृतं सुकृतिनः परिपालयन्ति।
- अजो नित्यं शाश्वतोऽयं पुराणः ।
- अज्ञः सुखमाराध्यः ।
- अति सर्वत्र वर्जयेत् ।
- अतिथिदेवो भव ।
- अतिदर्पे हता लङ्का ।
- अत्यादरः शङ्कनीयः ।
- अत्येति रजनी या तु ।
- अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।
- अद्यैव कुरु यच्छ्रेयः ।
- अधिकस्य अधिकं फलम् ।
- अध्यात्मविद्या विद्यानाम् ।
- अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।
- अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
- अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?
- अनिर्वेदः सदा कार्यः ।
- अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।
- अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
- अन्नं न निन्द्यात् तद्व्रतम् ।
- अन्नं न परिचक्षीत तद्वृतम् ।
- अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
- अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।
- अप्रमत्तः सदा भवेत् ।
- अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
- अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।
- अभिमानविहीनानां किं धनेन, किमायुषा ?
- अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।
- अमेध्यो वै पुरुषो यदनृतं वदति ।
- अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
- अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।
- अर्थमूलौ हि धर्मकामौ ।
- अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।
- अर्थार्थी जीवलोकोऽयम् ।
- अर्थो हि लोके पुरुषस्य बन्धुः ।
- अर्धो घटो घोषमुपैति नूनम् ।
- अर्धो वै एष आत्मनो यत्पत्नी ।
- अलक्ष्मीराविशत्येव शयानमलसं नरम् ।
- अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।
- अल्पविद्या भयङ्करी ।
- अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
- अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
- अशान्तस्य मनो भारम् ।
- अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
- अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।
- अहिंसा परमो धर्मः।