अधमा धनमिच्छन्ति...

विकिसूक्तिः तः

सुभाषितम्

अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

चाणक्यनीतिदर्पणम् ८/१

adhamā dhanamicchanti dhanamānau tu madhyamāḥ ।
uttamā mānamicchanti māno hi mahatāṃ dhanam ॥

पदच्छेदः

अधमाः, धनम्, इच्छन्ति, धनमानौ, तु, मध्यमाः, उत्तमाः, मानम्, इच्छन्ति, मानः, हि, महतां, धनम् ।


तात्पर्यम्

अनुत्तमाः जनाः जीवने धनमात्रम् इच्छन्ति । धनसम्पादनम् एव तेषां जीवनस्य लक्ष्यं भवति । एतादृशं जीवनं कदापि श्लाघ्यं न भवति । मध्यमजनाः धनं मानं च इच्छन्ति । धनेन सह मानम् अपि एते इच्छन्ति इत्यतः एतेषां जीवनं निन्द्यं न भवति चेदपि अतिप्रशस्तं तु न । महापुरुषाः सदापि मानम् एव इच्छन्ति । ते धनं तृणसमानं भावयन्ति । मानम् एव धनं भावयन्ति । मानधनानाम् एतेषां जीवनम् एव उत्कृष्टम् ।


आङ्ग्लार्थः

An inferior person’s desire is money. An average person will desire money and respect. A great person desires respect (and not Money). Respect is superior to money.

"https://sa.wikiquote.org/w/index.php?title=अधमा_धनमिच्छन्ति...&oldid=17419" इत्यस्माद् प्रतिप्राप्तम्