सैषा चतुष्पदा...

विकिसूक्तिः तः

सैषा चतुष्पदा षड्विधा गायत्री । - छान्दोग्योपनिषत् ३-१२-५

सा एषा गायत्री चतुष्पदा षड्विधा भवति ।

गायत्री इति छन्दोनाम । प्रतिपादम् एकाक्षरम्, अक्षरद्वयम्, त्र्यक्षरम्, चतुरक्षरम्,
पञ्चाक्षरम्, षडक्षरम् च – उक्ता, अत्युक्ता, मध्या, प्रतिष्ठा, सुप्रतिष्ठिता, गायत्री
च – इति छन्दः कथ्यते । प्रकृते, प्रतिपादं षडक्षरा,चतुष्पदा च गायत्री इति उच्यते ।
‘चतुष्पदा गायत्री’ इति प्रसिद्धा ॥

इयं गायत्री ‘षड्विधा’ भवति । वाक्, भूतानि, पृथिवी, शरीरम्, हृदयं, प्राणः इति एतैः
रूपैः विद्यमाना गायत्री षड्विधा भवति । षड्भिः अक्षरैः युक्ता च षड्विधा भवति गायत्री ।
सर्वथा अस्मिन् गायत्रीच्छन्दसि प्रतिपादं षट् अक्षराणि, चत्वारः पादाश्च भवन्ति । एवं
चतुर्विंशत्यक्षरैः युक्ता गायत्री वेदेषु प्रसिद्धा अस्ति । गायत्री ‘छन्दसां माता’ इति प्रथितास्ति ।
एवं हि गायत्रीच्छन्दसः महिमानं विज्ञाय तदुपासनं कर्तव्यम् ॥

"https://sa.wikiquote.org/w/index.php?title=सैषा_चतुष्पदा...&oldid=16388" इत्यस्माद् प्रतिप्राप्तम्