स्वदेहमरणिं कृत्वा...

विकिसूक्तिः तः

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ॥ - श्वेताश्वतरोपनिषत् १-१४

साधकः स्वदेहमेव अरणिं कृत्वा प्रणवं च उत्तरारणिं
कृत्वा ध्यानानुष्ठानाभ्यासात् निगूढं देवं पश्येत् ।

अग्नेः उत्पादनं कृत्वा तेन अग्निना यज्ञयागादीनि
अनुष्ठीयन्ते खलु ? एवमेव अत्रापि आत्मदर्शनार्थं
साधनम् उपदिष्टमस्ति । अधस्तात् अरणिः अधरारणिः,
ऊर्ध्वम् अरणिः उत्तरारणिः । अस्माकं देह एव अधरारणिः ।
अत्र देहो नाम अन्तर्हृदयम् अथवा मनोऽन्तर्वर्ती अहङ्कारः ।
अथ ओङ्कार एव उत्तरारणिः । अस्य मथनं कार्यम् ॥।

अहङ्कारप्रणवयोः सङ्घर्ष एव ध्यानम् । अहङ्कारे ओङ्कारं
संयोज्य ध्यानकरणात् आत्मनः ज्ञानम् उत्पद्यते । अयमात्मा
अग्निरिव देदीप्यते । ध्यानेन अस्य आत्मनः ज्ञानम् उत्पद्यते ।
एवम् ओङ्कारोपासनेन अन्तरात्मा द्र्ष्टुं शक्यते, दृष्ट्वा च
अन्तरात्मानं साधकः कृतार्थो भवेत् ॥

"https://sa.wikiquote.org/w/index.php?title=स्वदेहमरणिं_कृत्वा...&oldid=16639" इत्यस्माद् प्रतिप्राप्तम्