स्वाध्यायप्रवचने एवेति...

विकिसूक्तिः तः

स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ - तैत्तिरीयोपनिषत् १-९

स्वाध्यायः प्रवचनं च अवश्यं कर्तव्यमेव इति नाकमौद्गल्यः अभिप्रैति । यतः तदेव तपः, तदेव हि तपः ॥

सर्वाण्यपि साधनानि कर्तव्यत्वेनैव शास्त्रेषु विहितानि । न हि शास्त्रविहितानि साधनानि कनिष्ठानि भवन्ति ।
सर्वाण्यपि अनुष्ठेयान्येव । अपि तु सर्वाणि साधनानि सर्वेण पुरुषेण न अनुष्ठेयानि, न च अनुष्ठातुं शक्यन्ते ।
तस्मात् भिन्नभिन्नेभ्यः वर्णेभ्यः भिन्नभिन्नेभ्यः आश्रमेभ्यश्च विशिष्य भिन्नानि साधनानि विहितानि सन्ति । तान्येव
तैः अनुष्ठेयानि भवन्ति ॥

प्रकृते तु, द्विजैः तत्रापि ब्राह्मणैः अवश्यं कर्तव्यमेव साधनं नाम स्वाध्यायः प्रवचनं च । स्वाध्यायो नाम स्वेन
प्रत्यहं क्रियमाणं वेदाध्ययनम् । प्रवचनं नाम स्वेन अधीतस्य वेदस्य अन्येभ्यः प्रतिपादनम्, स्वाध्यायप्रवचने
इति अध्ययनाध्यापने । स्वेन अध्ययनं यथा तपः तथैव अधीतस्य वेदस्य इतरेभ्यः अध्यापनं च मुख्यमेव तपः ।
अयं हि नाकमौद्गल्यस्य महर्षेः अभिप्रायः ॥