हर्तुर्न गोचरं याति...

विकिसूक्तिः तः

सुभाषितम्

हर्तृर्न गोचरं याति दत्ता भवति विस्तृता ।
कल्पान्तेऽपि न या नश्येत् किमन्यद्विद्यया विना ॥

hartṛrna gocaraṃ yāti dattā bhavati vistṛtā ।
kalpānte'pi na yā naśyet kimanyadvidyayā vinā ॥ ॥

पदच्छेदः

हर्तृः, न, गोचरम्, याति, दत्ता, भवति, विस्तृता, कल्पान्ते, अपि, न, या, नश्येत्, किमन्यत्, विद्यया, विना ॥


तात्पर्यम्

विद्या चोराणां कृते न दृश्यते । अन्येभ्यः दत्ता चेत् विस्तृता भवति । कल्पान्ते अपि अस्याः नाशः न भविष्यति । विद्यायाः समानं नान्यत् किमपि विद्यते ।


आङ्ग्लार्थः

That which is not seen by the thieves, which expands upon giving, which is not destroyed even during calamities, what other than Knowledgecan it be?

"https://sa.wikiquote.org/w/index.php?title=हर्तुर्न_गोचरं_याति...&oldid=17230" इत्यस्माद् प्रतिप्राप्तम्