अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां...

विकिसूक्तिः तः

अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां
सदा सद्भिः सेव्यमानां निगूढाम् ।
यथाऽचिरात् सर्वपापं व्यपोह्य
परात्परं पुरुषं याति विद्वान् ॥ - कैवल्योपनिषत् १-१

आश्वलायनमहर्षिः ब्रह्माणम् उपगम्य एवं प्रार्थयते 'भो भगवन्, सत्पुरुषैः सदा संसेव्यां
रहस्याम् अत्यन्तश्रेष्ठां परब्रह्मविद्यां मह्यं कृपया अनुगृहाण । यतः ब्रह्मविद्यया मानवः सर्वाणि
पापानि दूरीकृत्य सद्य एव परात्परं परमात्मानम् विन्दते' ॥

न हि ब्रह्मविद्या नाम सामान्या केवलम् अर्थकरी विद्या, किं तु एषा अत्यन्तश्रेष्ठा विद्या ।
सत्पुरुषैः सदा मननीया हि विद्या ब्रह्मविद्या । वेदवेदांतशास्त्रसारभूता हि ब्रह्मविद्या !!

एवंलक्षणया विद्यया कीदृशं हि फलं भवति अस्माकम् ? इति चेत् । पुण्यपापविनाशः, तदनन्तरं
च परमपुरुषार्थप्राप्तिः । ब्रह्मात्मज्ञानाद्धि मानवस्य पुण्यपापदाहः । ततः पश्चात् सः मुमुक्षुः ब्रह्मैव
प्राप्नोति । अयमेव हि ब्रह्मविद्यायाः महिमा नाम ॥