इष्टापूर्तं मन्यमाना वरिष्ठम्...

विकिसूक्तिः तः

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे
ते सुकृतेऽनु भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ - मुण्डकोपनिषत् १-२-१०

इष्टापूर्तमेव वरिष्ठं मन्यमानाः प्रमूढा जनाः आत्मज्ञानाख्यम् अन्यत् श्रेयः न जानन्ति ।
एते नाकस्य पृष्ठे सुकृतफलानि अनुभूय अनन्तरम् इमं भूलोकम् आगच्छन्ति, अथवा
इतोऽपि हीनतरं लोकं सर्पादितिर्यग्योनिम् प्रविशन्ति ॥

अयं मन्त्रः केवलकर्ममार्गं धैर्येण निन्दति । ‘न हि निन्दान्यायेन’ अस्य मन्त्रस्य तात्पर्यं
ग्राह्यम् । न हि कर्ममार्गं निन्दितुमयं मन्त्रः आगतः किन्तु मोक्षसाधनभूतं ज्ञानमार्गं स्तोतुम् ॥

अग्निहोत्रादीनां श्रौतानां कर्मणां इष्टम् इति नाम, वापीकूपतटाकादीनां स्मार्तानां कर्मणां पूर्तम्
इति च नाम भवति । केवलम् इष्टापूर्तनिष्ठानां कर्मिणां स्वर्गलोकप्राप्तिः फलं भवति । तत्र
स्वर्ग्यभोगान् अनुभूय ततो अवरोहन्ति । अनन्तरं मानवयोनौ वा श्वादितिर्यग्योनौ वा जायन्ते ।
सर्वथा तेषां पुनर्जन्मभयम् अस्त्येव ॥