इह चेदवेदीदथ सत्यमस्ति...

विकिसूक्तिः तः

इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीत् महती विनष्टिः । - केनोपनिषत् २-५

अस्मिन्नेव जन्मनि आत्मानं जानाति चेत् तदा साधकस्य सत्यवस्तुनः प्राप्तिर्भवेत्, न जानाति
चेत् तदा महती हानिः ।

इदं मानवजन्मैव अत्यन्तदुर्लभं तथा अत्यन्तश्रेष्ठं पूर्वजन्मसु कृतानां पुण्यकर्मणां फलेत्वेन
अद्य अस्माकम् ईदृशम् उत्तमोत्तमं मानवजन्म प्राप्तमस्ति । ईदृशॆ पवित्रे मानवजन्मनि उत्तमं
श्रेष्ठमेव फलं प्राप्तव्यं खलु ? नौव्यापारं चिकीर्षुः चणकव्यापारं कर्तुं नेच्छति हि ?

भवतु, तर्हि, अस्मिन् मानवजन्मनि बुद्धिमता पुरुषेण किं वा सम्पादनीयम् ? आत्मज्ञानम् । आत्मैव
गुरुतरं सारतमं च तत्त्वम् आत्मैव हि समस्तस्यापि जगतः आधारभूतं मूलं वस्तु । मानवस्यैव ईदृशम्
आत्मानं विज्ञातुं सुवर्णावकाशः । तस्मात् आत्मज्ञानं सम्पादनीयमेव । तदैव मानवजन्मप्राप्तेः सार्थक्यम् ।
प्रत्यगात्मनि अविदिते तु महती हानिरेव स्यात् ॥