ईश्वरः

विकिसूक्तिः तः
  • अयः स्वभावादचलं बलाच्चलत्यचेतनं चुम्बकसंनिधाविव ।
तनोति विश्वेक्षितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥
    • अभिज्ञानशाकुन्तलम्, IV-१६
  • कुतस्तस्य विजयादन्यद् यस्य भगवान् पुराणपुरुषो नारयणः स्वयं मङ्गलान्याशास्ते ।
    • वेणीसंहारम्, पृ ० ३२४
  • को हि नाम भगवता सन्दिष्टे विकल्पयति ।
    • वेणीसंहरम्, पृ ० २६५
  • हरेः स्वतन्त्रस्य कृपापि तद्वद्धत्ते न सा जातिकुलाद्यपेक्षाम् ।
    • चैतन्यचन्द्रोदयनाटकम्, VIII-४
  • किमीश्वराणां परोक्षम् ।
    • अभिज्ञानशाकुन्तलम्, पृ ० ४३५
"https://sa.wikiquote.org/w/index.php?title=ईश्वरः&oldid=5149" इत्यस्माद् प्रतिप्राप्तम्