उत्साहसम्पन्नमदीर्घसूत्रं...

विकिसूक्तिः तः

सुभाषितम्

उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च सिद्धिः स्वयं गच्छति वासहेतोः ॥




तात्पर्यम्

उत्साहशीलम्, अविलम्बेन कार्यं कुर्वन्तं, कार्यपद्धतेः ज्ञातारं, दुरभ्यासेषु अनासक्तं, शूरं, कृतज्ञं, स्नेहस्वभावयुतं च जनं कार्यसिद्धिः स्वयम् आश्रयति ।