उद्गीतमेतत् परमं...

विकिसूक्तिः तः

उद्गीतमेतत् परमं तु ब्रह्म तस्मिन् त्रयं सुप्रतिष्ठाऽक्षरं च । - श्वेताश्वतरोपनिषत् १-७

इदम् उद्गीतं परं ब्रह्मेति कथ्यते । तस्मिन् त्रयम् अवभासते । इदमेव ब्रह्म जगतः सुप्रतिष्ठा ।
इदमेव च अक्षरम् ॥

अस्य दृश्यमानस्य विश्वस्य पारमार्थिकं स्वरूपमेव ब्रह्म । नामरूपैः व्याकृतत्वेन दृश्यमानोऽयं
प्रपञ्चः परमार्थतः नामरूपरहितं ब्रह्मैव । अस्य जगतः आस्पदभूतं परमेव ब्रह्म । अस्य जगतः
मूलमेव ब्रह्म । अस्य जगतः सारभूतमेव ब्रह्म । न हि परं ब्रह्म नाम यत्रकुत्रापि विद्यमाना दूरस्था
एका काचिद्देवता ॥

अस्मिन्नेव ब्रह्मणि त्रयमपि भाति । त्रयं नाम – देशकालनिमित्तानि, कर्तृभोक्तृप्रमातारः, देवमानवराक्षसाः,
सत्त्वरजस्तमोगुणाः, जाग्रत्स्वप्नसुषुप्ताख्याः तिस्रोऽवस्थाः । सृष्टिस्थितिलयाः, भूतभवत्भविष्याणि,
ब्रह्मविष्णुमहेश्वराः, ऋग्वेदयजुर्वेदसामवेदाः । एवं त्रिधा विभक्तं समस्तमपि जगत् परस्मिन्नेव ब्रह्मणि
अवभासते । सर्वस्यापि जगतः आस्पदभूतं ब्रह्म ॥

"https://sa.wikiquote.org/w/index.php?title=उद्गीतमेतत्_परमं...&oldid=16604" इत्यस्माद् प्रतिप्राप्तम्