उभौ तौ न विजानीतो...
उभौ तौ न विजानीतो नायं हन्ति न हन्यते । - काठकोपनिषत् १-२-१९
यौ आत्मानं कर्तृत्वेन कर्मत्वेन वा जानीतः तावुभावपि आत्मानं सम्यक् न विदतुः । यस्मात्
आत्मा न हन्ति, न च हन्यते ॥
सर्वस्या अपि क्रियायाः एकेन कर्त्रा भाव्यम् , अपरेण कर्मणा च भाव्यम् । यथा, दर्शनक्रियायाः
एकः द्र्ष्टा भवेत्, तथा एकं कर्म च भवेत् । ‘रामो दशरथं पश्यति’ इत्यत्र दर्शनक्रियायाः रामः
कर्ता, दशरथः कर्म च भवति । एवमेव हननक्रियायाः एकेन कर्त्रा भाव्यम्, स एव हि ‘हन्ता’
इत्युच्यते; अन्येन च कर्मणा भाव्यम्, स एव हि ‘हन्तव्यः’ इत्युच्यते ॥
लोको हि ‘अहं हन्मि’ इति , ‘अहं हन्ये’ इति च आत्मानं मन्यते । ‘सः मां हन्ति’ , ‘अहं तेन
हतो भवामि’ इति सर्वोऽपि जनः जानाति । एषा हि अविद्या एव । यतो हि आत्मा हन्ता न भवति,
न च हन्तव्यो भवति । हन्ता देहः हन्तव्यश्च देह एव खलु । तस्मात् आत्मानं क्रियाकर्तृत्वेन वा
क्रियाकर्मत्वेन वा यौ जानीतः तौ उभौ अपि अज्ञौ एव ॥