अकस्मादेव यः कोपात्...

विकिसूक्तिः तः

सुभाषितम्

अकस्मादेव यः कोपात् परुषं बहु भाषते ।
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात् ॥

कामान्दकीयः नीतिसारः १५-१०

akasmādeva yaḥ kopāt paruṣaṃ bahu bhāṣate ।
tasmādudvijate lokaḥ, sasphuliṅgādivānalāt ॥

पदच्छेदः

अकस्मात्, एव, यः, कोपात्, परुषं, बहु, भाषते, तस्मात्, उद्विजते, लोकः, सस्फुलिङ्गात्, इव, अनलात् ॥


तात्पर्यम्

अकस्मात् एव यः कश्चित् पुरुषः कोपेन तीक्ष्णवचनानि बहु भाषते तस्मात् लोकः त्रस्यति, अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति ।


आङ्ग्लार्थः

He that by fits and starts, often speaks too much in anger, causes thereby much anxiety to his subjects, like a fire shooting numerous sparks.

"https://sa.wikiquote.org/w/index.php?title=अकस्मादेव_यः_कोपात्...&oldid=17237" इत्यस्माद् प्रतिप्राप्तम्