अकुर्वन्तोऽपि पापानि...

विकिसूक्तिः तः

सुभाषितम्

अकुर्वन्तोऽपि पापानि, शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति, मत्स्या नागह्रदे यथा ॥८॥

रामायणम्. – अरण्य/३८/२६

akurvanto'pi pāpāni, śucayaḥ pāpasaṃśrayāt।
prajanaḥ sveṣu dāreṣu, śaucamadroha eva ca॥

पदच्छेदः

अकुर्वन्तः, अपि, पापानि, शुचयः, पापसंश्रयात्, परपापैः, विनश्यन्ति, मत्स्याः, नागह्रदे, यथा ।


तात्पर्यम्

यथा उरगपूर्णे ह्रदे (सरोवरे) मत्स्याः म्रियन्ते तथा पापानि न कुर्वन्तोऽपि पूतपुरुषाः पापिनां संश्रयेण (सहवासेन) परेषां पापकारणात् नश्यन्ति (कुसङ्गतिः)


आङ्ग्लार्थः

Innocent persons, though they may not commit any sinful acts, are punished as a consequence of their mere association with evil-doers; Just as the fishes in a serpent-pond are destroyed [by the snake destroyers] along with the snakes.