अक्रोधेन जयेत् क्रोधम्...

विकिसूक्तिः तः

सुभाषितम्

अक्रोधेन जयेत् क्रोधम् । असाधुं साधुना जयेत् ।
जयेत् कदर्यं दानेन । जयेत् सत्येन चानृतम् ॥

महाभारतम्/उद्योग/३९/७३

akrodhena jayet krodham । asādhuṃ sādhunā jayet ।
jayet kadaryaṃ dānena । jayet satyena cānṛtam ॥

पदच्छेदः

अक्रोधेन, जयेत्, क्रोधम्, असाधुं, साधुना, जयेत्, जयेत्, कदर्यं, दानेन, जयेत्, सत्येन, च, अनृतम् ।


तात्पर्यम्

शान्त्या कोपः जेतव्यः । दुष्टता उत्तमत्वेन जेतव्या । कृपणता दानेन, असत्यं सत्येन च जेतव्यम् ।


आङ्ग्लार्थः

Anger can be overcome by remaining cool (by not retaliating) and wickedness by kindness. Miserly behaviour can be overcome by giving away wealth as charity, and falsehood by adhering to the truth