अगतित्वमतिश्रद्धा...
सुभाषितम्
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता।
त्रयः शिष्यगुणा एते मूर्खाचार्यस्य भाग्यजाः॥
कलिविडम्बनम्/९
agatitvamatiśraddhā jñānābhāsena tṛptatā।
trayaḥ śiṣyaguṇā ete, mūrkhācāryasya bhāgyajāḥ॥
पदच्छेदः
अगतित्वम्, अतिश्रद्धा, ज्ञानाभासेन, तृप्तता, त्रयः, शिष्यगुणाः, एते, मूर्खाचार्यस्य, भाग्यजाः॥
तात्पर्यम्
मूर्खाचार्यस्य सौभाग्येन त्रयः विशिष्टगुणयुक्ताः शिष्याः मेलिष्यन्ति यथा कस्यचित् ज्ञानार्जने गति न भवति अन्यस्य कस्यचित् अतिश्रद्धा भवति, अपरस्य च ज्ञाने अप्राप्ते सत्यपि सर्वं जानामीति तृप्तिः जायते । एते त्रयः अवगुणाः मूर्खाचार्यस्य भाग्यं निर्धारयन्ति ।
It is merely by the luck of the dull headed teacher that he gets students who've inability to understand the subject of study, excessive faith on the teacher and satisfaction due to delusion of (with insufficient) knowledge.