अग्निः शेषं ऋणः शेषं...

विकिसूक्तिः तः

सुभाषितम्

अग्निः शेषम् ऋणः शेषं शत्रुः शेषं तथैव च ।
पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्॥

agniḥ śeṣaṃ ṛṇaḥ śeṣaṃ śatruḥ śeṣaṃ tathaiva ca ।
punaḥ punaḥ pravardheta tasmāt śeṣaṃ na kārayet॥

पदच्छेदः

अग्निः, शेषम्, ऋणः, शेषं, शत्रुः, शेषं, तथा, एव, च, पुनः, पुनः, प्रवर्धेत, तस्मात्, शेषं, न, कारयेत्॥


तात्पर्यम्

ऋणस्य शत्रोः च शेषं यदि अल्पप्रमाणेन तिष्ठेत् तथापि तत् पौनःपुन्येन वर्धते । अतः तत् पूर्णतया नाशनीयम् ।


आङ्ग्लार्थः

If fire, debts or enemies remain even in small traces, they keep growing repeatedly. That's why, one should not leave any traces.

"https://sa.wikiquote.org/w/index.php?title=अग्निः_शेषं_ऋणः_शेषं...&oldid=17397" इत्यस्माद् प्रतिप्राप्तम्