अङ्काधिरोपितमृगः...

विकिसूक्तिः तः

सुभाषितम्

अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥

शिशुपालवधम् २-५३

aṅkādhiropitamṛgaścandramā mṛgalāñchanaḥ ।
kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ ॥

पदच्छेदः

अङ्काधिरोपितमृगः, चन्द्रमा, मृगलाञ्छनः, केसरी, निष्ठुरक्षिप्तमृगयूथः, मृगाधिपः ।


तात्पर्यम्

स्वस्य अङ्के मृगं धरति इति चन्द्रं मृगलाञ्छनः इति नाम्ना व्यवहरन्ति । सिंहः निर्दयं मृगसमूहम् एव हन्ति, तं मृगाधिपः इति नाम्ना व्यवहरन्ति । शत्रौ मृगाङ्के इव मार्दवं न लाभकरम् । सिंहे इव काठिन्यमावश्यकम् । प्रथमं दुष्कीर्तिं सम्पादयति । द्वितीयं सुकीर्तिं सम्पादयति ।


आङ्ग्लार्थः

The moon who holds a deer in his lap (is branded as) deer-stained; while the lion who ruthlessly kills herds of deer is (glorified) king of deer (or: beasts).

"https://sa.wikiquote.org/w/index.php?title=अङ्काधिरोपितमृगः...&oldid=17405" इत्यस्माद् प्रतिप्राप्तम्