अजरामरवत् प्राज्ञो...

विकिसूक्तिः तः

सुभाषितम्

अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

ajarāmaravat prājño vidyāmarthaṃ ca sādhayet ।
gṛhīta iva keśeṣu mṛtyunā dharmamācaret ॥

पदच्छेदः

अजरामरवत्, प्राज्ञः, विद्याम्, अर्थं, च, साधयेत्, गृहीतः, इव, केशेषु, मृत्युना, धर्मम्, आचरेत् ।


तात्पर्यम्

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।


आङ्ग्लार्थः

Virtuous men go about collecting knowledge and wealth as if they will live for ever. When it comes to following Dharma, they never procrastinate. They perform their duties as if death is holding them by their hair.

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=16651" इत्यस्माद् प्रतिप्राप्तम्