अणुः पन्था विततः पुराणो...

विकिसूक्तिः तः

अणुः पन्था विततः पुराणो
मां स्पृष्टो अनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः
स्वर्गं लोकम् इत ऊर्ध्वं विमुक्ताः ॥ - बृहदारण्यकोपनिषत् ४-४-८

ज्ञानमार्गोऽयं सूक्ष्मः, अनादिकालादपि विततः, पुराणः; मां स्पृष्टो मार्गोऽयम् । मया सम्पादितश्च;
ब्रह्मविदः अनेनैव ज्ञानमार्गेण प्रयाताः विमुक्ताः सन्तः ब्रह्मानन्दं प्राप्नुवन्ति ॥

वेदान्तेषु उपदिष्टस्य मुक्तिमार्गस्य नाम ‘ज्ञानमार्गः’ इति । वेदान्तानां मार्गः राजमार्गः, अयमेव हि
ज्ञानमार्गः, अयमेव मुक्तिमार्गः अयमेव शुकमार्गः । वेदोपनिषत्सु विततः अनादिः श्रेयोमार्गोऽयम् ।
अणुरयं सूक्ष्ममार्गः । मन्दमध्यमाधिकारिणां सुलभतया अगम्यः, अनुभवैकगम्यः गहनमार्गोऽयम् ॥

एतन्मार्गानुसारिणां परमं फलं मुक्तिरेव । सा प्राप्ता एव । विवेकिनः केवलं ब्रह्मज्ञानिनः अस्मिन्
ज्ञानमार्गे प्रवृत्ताः मुक्ता भवन्ति । आत्मज्ञानेन अज्ञाने निवृत्ते सति मोक्षः प्राप्त एव भवति ॥