अणोरणीयान् महतो महीयान्...
अणोरणीयान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमात्मनः ॥ - श्वेताश्वतरोपनिषत् ३-२०
आत्मा अणोः अणीयान्, महतो महीयान् सन् सर्वेषां प्राणिनां गुहायां वसति । परमात्मनः अनुग्रहेण
आत्मानं विज्ञाय दुःखरहितो भवति ॥
आत्मा कुत्रास्ति ? कथमस्ति ? तस्य अवगतिः कथम् ? तस्य ज्ञानेन किं वा फलं भवति ? इति
चतुर्णामपि प्रश्नानाम् प्रतिवचनानि अयं मन्त्रः सुन्दरतया उपदिशति ॥
परमात्मा सर्वप्राणिनां हृदये वसति । सः सूक्ष्मः स्थूलश्च भवति । आत्मा परमाणोरपि सूक्ष्मः, पृथिव्याः
अपि महान् । ईदृशम् आत्मानम् अवगन्तुं साधकः भगवद्भक्तः भवेत्, ततः भगवतः अनुग्रहं लभेत् ।
जिज्ञासुर्हि शमदमादिसाधनसम्पन्नो भवेत् । अस्य आत्मनः ज्ञानेन साधकः सर्वदुःखानि अत्येति ।
आत्मनः महिमानं ज्ञात्वा आत्मवित् सर्वान् तापान् अतीत्य मुक्तो भवति ॥
वह सूक्ष्म से भी अति सूक्ष्म, बड़े से भी बहुत बड़ा, परमात्मा, इस जीव की हृदयरूप गुफा में छिपा हुआ है। सबकी रचना करने वाले उस परमेश्वर की कृपा से, जो मनुष्य उस संकल्परहित परमेश्वर को, और उसकी महिमा को देख लेता है, वह सब प्रकार के दुःखों से रहित होकर, उन परम आनंदस्वरूप परमेश्वर को प्राप्त कर लेता है।