अतिथिः

विकिसूक्तिः तः
  • अतिथिमनादृत्य न युक्तमात्मनैव किञ्चिदपि सेवितुम् ।
    • मृच्छकटिकम् पृ १७
  • अतिथिपालनं विहितं शास्त्रे अमरलोकत्वमाप्तुम् एवैति कथयति जडमतिः ।
    • आर्यसत्यम्, पृ ५७
  • उचितं नः पर्युपासनमतिथीनाम् ।
    • अभिज्ञानशाकुन्तलम् पृ ६५
  • अतिथिदेवाः खलु भारतीयाः ।
    • सुसंहृत्तभारतम्, पृ ६०
  • यत्र गेहे असत्कृताः अतिथयः सन्तिः तत्र भोज्यं नास्ति किञ्चित् तत्र नास्ति पानीयम् ।
    • आर्यसत्यम्, पृ ८३
  • गॄहपतेः कुलं धनञ्च वर्धन्ते॓ऽतिथिपूजया ।
    • आर्यसत्यम्, पृ ८४
  • वेदोक्तं यज्ञसमम् अतिथिपूजां गायति ।
    • आर्यसत्यम्, पृ ८४
  • अतिथिपालनात् तुष्टाः अमराः यच्छन्ति जन्मान्ते देवलोकम् ।
    • आर्यसत्यम्, पृ ८७
  • अतिथिसत्कारणैव याति मनुजो स्वर्गम् ।
    • आर्यसत्यम्, पृ ८४
  • अत्रैव लोकसंग्रहायैव अतिथिपलनं विहितम् ।
    • आर्यसत्यम्, पृ ८७
  • अतिथिदेवं पूजयन्तः पुण्यपुञ्जं लभन्तो आर्यदेशसंस्कृतिम् उन्नतीकुर्वन्ते ।
    • आर्यसत्यम्, पृ ८४
  • न युज्यतेऽतिथिविशेषमसत्कृय पदमात्रमपि चलितुम् ।
    • सुभद्राहरणम् पृ १३
  • सर्वस्याभ्यागतो गुरुः ।
    • नागानन्दम्, पृ ५०
  • समागतानां युक्तः पूजया प्रतिग्रहः ।
    • प्रतिज्ञायौगन्धरायणम् पृ ७४
  • मित्रस्यातिथ्यं स्वर्गतुल्यं सुखदं भवति ।
    • एकाङ्काष्टकम्, पृ ० १०५
  • वाचानुवृत्तिः ख्ल्वतिथिसत्कारः ।
    • प्रतिमानाटकम्, पृ ० ३४१
"https://sa.wikiquote.org/w/index.php?title=अतिथिः&oldid=76" इत्यस्माद् प्रतिप्राप्तम्