अतिथिः यस्य भग्नाशः...

विकिसूक्तिः तः

सुभाषितम्

अतिथिः यस्य भग्नाशः गृहात् प्रतिनिवर्तते ।
स दत्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥

ब्रह्मपुराणम् २२२-३६

atithiḥ yasya bhagnāśaḥ gṛhāt pratinivartate ।
sa datvā duṣkṛtaṃ tasmai puṇyamādāya gacchati ॥

पदच्छेदः

अतिथिः, यस्य, भग्नाशः, गृहात्, प्रतिनिवर्तते, सः, दत्वा, दुष्कृतं, तस्मै, पुण्यम्, आदाय, गच्छति ।


तात्पर्यम्

गृहम् आगतः अतिथिः भग्नाशः निराशः सन् गृहात् प्रतिगच्छति सः तत्रत्यं पुण्यं स्वीकृत्य स्वीयं दुष्कृतं दत्त्वा गच्छति ।


आङ्ग्लार्थः

From the house of whomsoever a guest turns away disappointed in his expectation, he departs, transferring to him (his own) misdeeds (and) taking away the religious merit (of the churlish house-holder)

"https://sa.wikiquote.org/w/index.php?title=अतिथिः_यस्य_भग्नाशः...&oldid=17232" इत्यस्माद् प्रतिप्राप्तम्