अत्रान्तरं ब्रह्मविदो...

विकिसूक्तिः तः

अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः । - श्वेताश्वतरोपनिषत् १-७

प्रपञ्चकारणभूतं ब्रह्म आत्मत्वेन विदित्वा ब्रह्मज्ञानिनः परस्मिन् ब्रह्मणि लीनाः, ब्रह्मैव सम्पन्नाः सन्तः
जन्मबन्धनात् प्रमुच्यन्ते ॥

अस्य स्थूलप्रपञ्चस्य अन्तःस्थं सारभूतं ब्रह्म । अन्तरम् इति अन्तः इत्यर्थः । नामरूपक्रियात्मकतया
स्थूलरूपेण दृश्यमानस्य अस्य विश्वस्य परब्रह्मैव सारभूतम् । शरीरेन्द्रियमनः प्राणोभ्योऽपि अन्तरतमं ब्रह्म ।
अत्र अन्तः इत्युक्ते घटान्तः तण्डुला इतिवत् न ग्राह्यम् । किन्तु घटस्य अन्तः मृद्वत्, हिमखण्डे जलवत् इत्यर्थः ॥

अन्नमय प्राणमय मनोमय विज्ञानमय आनन्दमयाख्यान् पञ्चापि कोशान् संव्याप्य, पञ्चानामपि कोशानामन्तः विद्यमानं
वस्तु ब्रह्मैव इदं ब्रह्म आत्मत्वेन ये जानन्ति ते ब्रह्मज्ञानिनः । ब्रह्मविदः ब्रह्मैव भवन्ति । एषां पुनर्जन्मसम्बन्धः
अस्ति किम् ? एते जीवन्त एव ब्रह्मस्वरूपा भवन्ति । एते जन्ममरणसंसारचक्रम् अतिक्रान्ताः । एते ब्रह्मनिष्ठाः
ब्रह्मैव सम्पन्नाः । आत्मज्ञानमेव जन्मपरिहारोपायः ॥