अत्रैष देवः स्वप्ने...

विकिसूक्तिः तः

अत्रैष देवः स्वप्ने महिमानम् अनुभवति । - प्रश्नोपनिषत् ४-५

अत्र स्वप्ने मनोदेवः स्वमहिमानम् अनुभवति ।

जागरिते इन्द्रियाणि जाग्रन्ति सन्ति स्वस्वव्यापारान् कुर्वन्ति । इन्द्रियाणां मनः
सहायकं भवति । जाग्रति मनसोऽपि इन्द्रियाणामेव प्राबल्यम्, तेषामेव राज्यभारश्च ॥

जागरितं विहाय स्वप्नं गते सति तत्र केवलं मन एव वर्तते । स्वप्ने इन्द्रियाणां चेष्टा न
विद्यते । स्वप्ने मनः स्वेष्टान् पदार्थान् स्वयमेव सृष्ट्वा स्वयमेव आनन्दम् अनुभवति ।
स्वप्नकाले मनः राजवत् विराजते । तदा मनः स्वयमेव इन्द्रियाणि, विषयाः, शरीरं च
भवति । तत्र यथेष्टं पश्यत्, यथाकामं शृण्वत्, स्वेष्टं खादत् देवं मनः सानन्दं वर्तते ।
तस्मात् मनः सर्वशक्तं सर्वज्ञं च वर्तते । इन्द्रियाणि मनस्तन्त्राणि, मनस्तु स्वतन्त्रम् ।
एकमेव सदपि मनः अनेकवस्तुरूपेण अवभासेत । मनसो महिमा ह्येषः । आत्मा तु
ईदृशस्यापि मनसः प्रत्यक्चेतनभूतः । आत्मन एव मनसः अस्तित्वम् । आत्माधीन एव
मनसो महिमायम् ॥

"https://sa.wikiquote.org/w/index.php?title=अत्रैष_देवः_स्वप्ने...&oldid=16423" इत्यस्माद् प्रतिप्राप्तम्