अत्र पिता अपिता भवति...

विकिसूक्तिः तः

सुषुप्तावस्थायां द्वैताभावः

अत्र पिता अपिता भवति, माता अमाता, लोका अलोकाः,
देवा अदेवाः वेदा अवेदाः । - बृहदारण्यकोपनिषत् ४-३-२२

अत्र सुषुप्तौ पिता अपिता भवति, माता अमाता भवति, लोकाः अलोका
भवन्ति, देवा अदेवाः, वेदाश्च अवेदा भवन्ति ॥

केवलं जाग्रतस्वप्नयोरेव सर्वे द्वैतव्यवहारा भवन्ति । भेदसम्बन्धाः सर्वेऽपि
जागरिते तथा स्वप्ने भवन्ति । पिता, पुत्रः, पतिः, पत्नी, वर्णाः, आश्रमाः,
धर्माधर्मै, वेदाः, देवताः, लोकाः इत्येते सर्वेऽपि पदार्थाः केवले जागरिते
सत्यत्वेनैव अवभासन्ते ॥

सुषुप्तौ तु ? एते सर्वेऽपि भेदव्यवहाराः तत्र नैव विद्यन्ते । जनकः सुषुप्तौ
न जनको भवति । पुत्रः तत्र न पुत्रो भवति, भार्या तत्र न भार्या भवति, वेदाः
न वेदास्तत्र, देवातास्तत्र न देवताः, शास्त्रं न शास्त्रम्, गुरुस्तत्र न गुरुः
शिष्योऽपि तत्र न शिष्यः । एते जनकादयः सर्वेऽपि भेदाः अविद्याकृता एव ।
उपाधिभिरेव भेदो दृश्येत । उपाध्यभावे भेदाभाव एव । तदा तत्र सर्वं निर्विशेषः
आत्मा एक एव भवति ॥

"https://sa.wikiquote.org/w/index.php?title=अत्र_पिता_अपिता_भवति...&oldid=16439" इत्यस्माद् प्रतिप्राप्तम्