अत ऊर्ध्वं विमोक्षायैव...

विकिसूक्तिः तः

अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति । - बृहदारण्यकोपनिषत् ४-३-१५

अस्मादूर्ध्वं विमोक्षायैव ब्रूहि इति जनको याज्ञवल्क्यम् उवाच ।

याज्ञवल्क्यात् महर्षेः स्वप्रश्नानां युक्तानि प्रतिवचनानि लब्ध्वा जनको
राजर्षिः प्रतिपर्यायं ‘गवां सहस्रं ते ददामि’ इति वदन् तथैव सहस्रं गाः
तस्मै गुरवे दत्तवान् । तावता प्रतिवचनेन असन्तुष्टः जनको राजर्षिः
पुनः पुनः “अत ऊर्ध्वं विमोक्षायैव ब्रूहि” इति याज्ञवल्क्यं महर्षिं
पृच्छति । जनकः एतां विमोक्षप्रयोजनां प्रार्थनां स्वगुरौ त्रिवारं करोति ॥

विमोक्षो नाम विवेकेन मोक्षः । मोक्षो नाम बन्धनात् मुक्तिरेव । साधनानि
कृत्वा साध्यफलावाप्तिरेव बन्धनम् । जन्ममरणचक्रमेव बन्धनम्, कृत्वा
साध्यफलावाप्तिरेव बन्धनम्, कृत्वा फलप्राप्तिरेव बन्धनम्, सुखदुःखमोहा एव
बन्धनम्, क्रियाकारकफलान्येव संसारः । अस्मात् संसारबन्धनात् मोचनमेव
मुक्तिर्नाम । वेदान्तेषु क्रियमाणा चर्चा, तत्त्ववादः विमोक्षायैव शिष्याणां प्रश्नाः
सद्गुरूणाम् उत्तराणि च विमोक्षायैव भवन्ति । सर्वाणि शास्त्राणि च विमोक्षायैव ॥