अथ अकामयमानो...

विकिसूक्तिः तः

अथ अकामयमानो योऽकामो निष्कामः आप्तकामः आत्मकामः । - बृहदारण्यकोपनिषत् ४-४-६

अकामयमानः आत्मज्ञानी तु स्वतः अकामः, निष्कामः, आप्तकामः, आत्मकामश्च भवति ॥

अविद्याकामभिः प्रेरितः अज्ञः कर्माणि कुर्वन्, तेषां फलानि अनुभवितुं जन्मान्तरं गच्छति । ततः
पुनः अत्र आगच्छति । एवं कामकर्मणोः दासभूतः इतस्तत्र, ततो अत्र सञ्चरन् संसारचक्रे गृहीतः
सन् अज्ञः सङ्कटानि अनुभवन् आस्ते ॥

ब्रह्मज्ञानी पुनः ? अस्य कामपीडा एव नास्ति । आत्मानन्दसागरे निमग्नस्य ब्रह्मज्ञानिनः विषयविषसागरस्य
कल्पना एव न सम्भवेत् । कामरहितस्य आत्मज्ञानिनः कर्मणां सम्बन्धो वा तैः बन्धनं वा सम्भवेद्वा ? नैव ।
अकामो हि आत्मज्ञानी निष्कामो भवति । निष्कामत्वादेव च अयम् आप्तकामः । आप्तकामत्वादेव ज्ञानी
आत्मकामः । एवम् आप्तकामस्य अकामस्य च आत्मज्ञानिनः स्वर्गलोकं प्राप्तुं कामः सम्भवेद्वा ? आत्मनिष्ठस्य
आत्मज्ञानिनः जन्मान्तरकल्पनमपि नैव सम्भवेत् ॥

"https://sa.wikiquote.org/w/index.php?title=अथ_अकामयमानो...&oldid=16441" इत्यस्माद् प्रतिप्राप्तम्