अदृष्टो द्र्ष्टा, अश्रुतः श्रोता...
अदृष्टो द्र्ष्टा
अदृष्टो द्र्ष्टा, अश्रुतः श्रोता, अमतो मन्ता,
अविज्ञातो विज्ञाता । - बृहदारण्यकोपनिषत् ३-७-२३
आत्मा अदृष्टोऽपि द्रष्टा, अश्रुतोऽपि श्रोता, अमतोऽपि मन्ता,
अविज्ञातोऽपि विज्ञाता अस्ति ।
आत्मानं परस्परविरुद्धतया उपदिशतीव अयं मन्त्रो दृश्यते ।
तथा नास्ति । जागरूकतया अस्य मन्त्रस्य अर्थो अनुसन्धेयः ।
आत्मा अदृष्टः, अपि तु द्रष्टा । तथा अश्रुतः, अपि तु श्रोता
अमतः, अपि तु मन्ता । अविज्ञातोऽयमात्मा, अपि तु विज्ञाता ॥
दृष्टो नाम इन्द्रियैर्वा इतरप्रमाणैर्वा ग्राह्यः इत्यर्थः । अदृष्टो
नाम न दृष्टः । द्रष्टा नाम पश्यति इति । आत्मा यद्यपि
चक्षुषा न गृह्यते, तथापि स्वयमेव चक्षुरवभासकः इत्यर्थः ।
श्रोत्रेण यद्यपि न विषयीक्रियते आत्मा तथापि श्रोत्रावभासकः
इत्यर्थः । मनसा वा बुद्ध्या वा न विषयीक्रियते आत्मा, आत्मैव
मनोबुद्धिसाक्षिभूतः । न केनापि प्रमाणेन विषयीक्रियमाणोऽप्यात्मा
स्वयं सर्वकरणावभासकः प्रत्यगात्मा सन् अमृतोऽयम् इत्यर्थः ॥