अद्यापि नोज्झति हरः...

विकिसूक्तिः तः

सुभाषितम्

अद्यापि नोज्झति हरः किल कालकूटं
कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे।
अम्भोनिधिर्वहति दुःसहवाडवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

चौरपञ्चाशिका ५०

adyāpi nojjhati haraḥ kila kālakūṭaṃ
kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge।
ambhonidhirvahati duḥsahavāḍavāgnim
aṅgīkṛtaṃ sukṛtinaḥ paripālayanti॥

पदच्छेदः

अद्य, अपि, न, उज्झति, हरः, किल, कालकूटं, कूर्मः, बिभर्ति, धरणीं, खलु, पृष्ठभागे, अम्भोनिधिः, वहति, दुःसहवाडवाग्निम्, अङ्गीकृतं, सुकृतिनः, परिपालयन्ति ।


तात्पर्यम्

शिवः अद्यत्वे अपि हालाहलकूटं न त्यक्तवान् अस्ति, कूर्मः अधुनाsपि भूमेः भारोद्वहनम् कुर्वन् अस्ति , समुद्रः अधुनाsपि वडवानलाग्निं वहन् अस्ति , तद्रीत्या उत्तमपुरुषाः जीवने यत् अङ्गीकुर्वन्ति तत् आन्त्यं परिपालयन्ति ।


आङ्ग्लार्थः

God Hara does not still give up the deadly poison; the Great Tortoise bears the Earth on his back; the ocean contains the unbearable vadava-fires; (in short) high-souled people stick to what they have once accepted.

"https://sa.wikiquote.org/w/index.php?title=अद्यापि_नोज्झति_हरः...&oldid=17416" इत्यस्माद् प्रतिप्राप्तम्