अध्यात्मयोगाधिगमेन देवं...
‘अध्यात्मयोग’स्य फलमिदम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति । - काठकोपनिषत् १-२-१२
स्वयंप्रकाशम् आत्मानम् अध्यात्मयोगेन विदित्वा, धीरः सन्
हर्षशोकौ जहाति ।
प्रतिपुरुषं जन्मप्रभृति मरणपर्यन्तं सुखदुःखानुभवः पौनः पुन्येन
भवत्येव । इष्टप्राप्तौ सुखम्, अनिष्टप्राप्तौ दुःखम् । अयं सार्वत्रिकः
सार्वजनीनः सहजः अपरिहार्यश्च महारोगः । सुखानन्तरं दुःखम्,
दुःखानन्तरं सुखम् । एवं सुखदुःखप्रवाहापतितो जन्तुरेव नास्ति ।
सर्वेऽपि प्राणिनः सुखदुःखभाजो भवन्ति ॥
तर्हि ईदृशानां सुखदुःखानाम् अन्तो नाम नास्त्येव किम् ? अस्त्येव
अन्तः । कथम् ? आत्मज्ञानेन । आत्मानं विवेकेन सम्यक् ज्ञात्वा
सद्य एव सुखदुःखानां सम्बन्धः, जन्ममरणानां च प्रवाहः शान्तो
भवति । आत्मा कथं ज्ञातव्यः ? अध्यात्मयोगेन । अध्यात्मयोगो
नाम अविद्याकल्पितात् अनात्मभूतात् देहादेः आत्मानं विविच्य
विवेकेन अन्तरन्तः प्रवेशः । एवम् अध्यात्मयोगेन आत्मज्ञानं लभ्यते ।
आत्मज्ञानेन सुखदुःखानि दूरीक्रियन्ते ॥