अनन्दा नाम ते लोकाः...
अनन्दा नाम ते लोकाः, तान् स गच्छति ता ददत् । - काठकोपनिषत् १-१-३
यो मनुष्यः निरुपयोगिनीः तादृशीः गाः ददाति असौ आनन्दरहितान् नरकलोकान् गच्छति ॥
काठकोपनिषदि अनुगता कथा इयम् । कथासन्दर्भस्तु एवम् अस्ति; पिता वाजश्रवसः यज्ञमेकम् अकरोत् ।
तत्र यज्ञे नैके ऋत्विजः वेदाध्ययनसम्पन्नाः यज्ञानुष्ठानार्थम् आकारिताः । यज्ञश्च यथाविधि समनुष्ठितः ।
अनुष्ठानान्ते कर्मसाफल्यार्थं तेन यजमानेन दक्षिणार्थत्वेन गावः दीयमानाः आसन् । ताश्च गावः वृद्धाः,
दुर्बलाः, निरुपयोगिन्यः, इन्द्रियपाटवरहिताश्च आसन् । एता वीक्ष्य पितृभक्तः सुपुत्रः नचिकेताः पितरं
प्रति एवमुक्तवान् ॥
शुद्धेन मनसा दातव्यम्, शुद्धानेव पदार्थान् दद्यात् । सन्तोषेण, प्रीत्या, सुहृदा खलु दातव्यम् ? देशं कालं
पात्रं च दृष्ट्वा दानं कुर्यात् । तथा कृते हि दानं सफलं भवेत् । सत्पात्रेभ्यः कुत्सितपदार्थदानात् न केवलम्
उत्तमफलं न लभ्यते इति, किं तु नरकलोकप्राप्तिरेव स्यात् । यादृशं दानं तादृशमेव फलं भवति । तस्मात्
सुदानमेव कर्तव्यम् ॥