अनन्यप्रोक्ते गतिरत्र...

विकिसूक्तिः तः

अयमेव समर्थः सद्गुरुः

अनन्यप्रोक्ते गतिरत्र नास्ति । - काठकोपनिषत् १-२-८

अनन्येन गुरुणा अनन्यभूते आत्मनि अनन्यतया प्रोक्ते सति तत्र गतिर्नास्ति ॥

आत्मतत्त्वम् अधिकृत्य उपदेष्टॄणाम् आचार्याणां न्यूनता नास्ति अस्मिन् काले,
वेदान्तान् अध्येतुं ग्रन्थानां न्यूनता नास्ति, उपन्यासश्रोतॄणां जिज्ञासूनां च न्यूनता
नास्ति । सत्यमेतत् । अपि तु प्रवचनकर्तॄणाम् आचार्याणां वा श्रोतॄणां शिष्याणां वा
ब्रह्मात्मज्ञानं न प्राप्तम् । न च प्राप्यते । कुतः ? उभयोरपि शुष्कशास्त्रपाण्डित्यमात्रं
विद्यते, न तु मुमुक्षुत्वम् । केवलेन शुष्कपाण्डित्येन आत्मज्ञानं नोदेति । किन्तु
पूजाख्यातिलाभगौरवाणि लभ्येरन् ॥

भवतु, शिष्याणाम् आत्मज्ञाननिष्ठाप्राप्त्यै कथं तर्हि गुरुणा भाव्यम् ? उपदेष्ट्रा आचार्येण
अनन्येन भाव्यम् । अनन्यो नाम् अभिन्नः इत्यर्थः । कस्मात् अभिन्नः ? परस्माद ब्रह्मणः ।
ब्रह्मविद्याचार्येणा सद्गुरुणा स्वतः ब्रह्मनिष्ठेन ब्रह्मस्वरूपेण सता शिष्येभ्यः परब्रह्मस्वरूपे
उपदिष्टे सत्येव सः उपदेशः अविद्यानिरसनसमर्थः फलकारी भवति । अयमेव समर्थः सद्गुरुः ॥