अनन्वागतं पुण्येन...
अनन्वागतं पुण्येन अनन्वागतं पापेन, तीर्णो हि तदा सर्वान्
शोकान् हृदयस्य भवति । - बृहदारण्यकोपनिषत् ४-३-२२
आत्मा तदा सुषुप्ते पुण्येन अनन्वागतः, पापेन च अनन्वागतः ।
यस्मात् आत्मा तत्र हृदयस्य सर्वान् शोकान् तीर्णो भवति ॥
अयं मन्त्रो वर्णयति सुषुप्तिस्वरूपम् । सुषुप्तिकाले पुण्यसम्बन्धो
वा पापलेपो वा आत्मनो नास्ति । जाग्रत् स्वप्नयोः पुण्यपापलेपः
आत्मनः अस्त्येव । अनिच्छन्नपि अयं जीवः पुण्यानि वा पापानि
वा नूनं करोत्येव । पुण्येन सुखं, पापेन दुःखं च फलं गंगाप्रवाहवत्
सततं भवत्येव ॥
सुषुप्तौ तु ईदृशस्य पुण्यस्य वा पापस्य वा सम्बन्धः नितरां सम्भवति ।
तत्र आत्मा उभेऽपि पुण्यपापे अतीत्य तिष्ठति । सुषुप्तिर्नाम पुण्यपापरहिता
स्वाभाविकी स्थितिः । कर्तृत्वभोक्तृत्व सद्भावे पुण्यपापयोर्भावः । उपाधिसद्भावे
कर्तृत्वभोक्तृत्वभावः । सुषुप्तौ तु उपाधीनामेव अभावः । अतः सुषुप्तौ शोको
वा मोहो वा नैव सम्भवति । सुषुप्तं नाम शोकमोहरहितं शान्तं शिवं स्थानम् ॥