अनभिध्या परस्वेषु...

विकिसूक्तिः तः

सुभाषितम्

अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥

महाभारतम् १३-१३-५

anabhidhyā parasveṣu sarvasattveṣu sauhṛdam ।
karmaṇāṃ phalamastīti trividhaṃ manasā caret ॥

पदच्छेदः

अनभिध्या, परस्वेषु, सर्वसत्त्वेषु, सौहृदम्, कर्मणाम्, फलम्, अस्ति, इति, त्रिविधम्, मनसा, चरेत्।


तात्पर्यम्

परद्रव्यस्य ग्रहणे अनिच्छा, सर्वेषु प्राणिषु मैत्रीभावः, जीवने यत् लभ्यते तत् कर्मणाम् एव फलम् अस्ति इति त्रिस्रः भावनाः मनसि सर्वदा स्थापनीयाः।


आङ्ग्लार्थः

One must cultivate three attitudes, no desire for others's goods, kindliness to all creatures and a robust faith in the fruitification of dees.

"https://sa.wikiquote.org/w/index.php?title=अनभिध्या_परस्वेषु...&oldid=17221" इत्यस्माद् प्रतिप्राप्तम्