अनुद्वेगकरं वाक्यं...

विकिसूक्तिः तः

सुभाषितम्

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥

भगवद्गीता १७-१५

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat ।
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥

पदच्छेदः

अनुद्वेगकरं, वाक्यं, सत्यं, प्रियहितं, च, यत्, स्वाध्यायाभ्यसनं, च, एव, वाङ्मयं, तप, उच्यते ।


तात्पर्यम्

वेदनाम् अजनयत्, सत्यं, प्रियं, हितकरं च सम्भाषणं, सदा अध्ययनम्, अधीतस्य मननम् – इदमेव वाङ्मयतपः ।


आङ्ग्लार्थः

Speech that hurts no one, that is true, is pleasant to listen to and beneficial, and the constant study of the scriptures - this is austerity in speech.

"https://sa.wikiquote.org/w/index.php?title=अनुद्वेगकरं_वाक्यं...&oldid=17495" इत्यस्माद् प्रतिप्राप्तम्