अनेजदेकं मनसो जवीयः...

विकिसूक्तिः तः

अनेजदेकं मनसो जवीयः । - ईशावास्योपनिषत् ४

परमात्मा अविक्रियः एकः सन् मनोवेगादपि अतिवेगवान् ।

परब्रह्मणः इन्द्रादिदेवतानां च लक्षणे भेदोऽस्ति । इन्द्रादिदेवतानां स्वीयानि विलक्षणानि
शरीराणि, अवयवाः देशकालौ, गुणधर्माः नामरूपादीनि च विद्यन्ते । नेन्द्रः चन्द्रः,न च
चन्द्रो देवेन्द्रः । एता देवताः परस्परं भिन्नलक्षणाः । औपनिषदः पुरुषः परमात्मा तु नैवम् ॥

तर्हि परमात्मनः स्वरूपं नाम कथम् अस्ति ? अयं कूटस्थः, अविक्रियः , परमात्मनो विकारो
नाम नास्त्येव । अस्यैव परं ब्रह्म इत्यपि नामधेयम् । देशकालवस्तुभिः असम्बद्धस्य परमात्मनः
विकारसम्बन्धो नैव वर्तते । सकलप्राणिनां समानस्वरूप एव परमात्मा । अस्मिन् परस्मिन् ब्रह्मणि
तारतम्यभेदोऽपि नास्ति ॥

तर्हि, ईदृशस्य परमात्मनः दर्शनं तु कथम् ? इति चेत्, अस्मास्वेव अन्तः द्र्ष्टव्योऽयमात्मा ।
अस्मत्करणानां साक्षिस्वरूपोऽयं परमात्मा, अयमेव प्रत्यगात्मा च भवति ॥

"https://sa.wikiquote.org/w/index.php?title=अनेजदेकं_मनसो_जवीयः...&oldid=16255" इत्यस्माद् प्रतिप्राप्तम्