अन्नमशितं त्रेधा विधीयते...

विकिसूक्तिः तः

अन्नमशितं त्रेधा विधीयते, तस्य यः स्थविष्ठो धातुः तत् पुरीषं भवति,
यो मध्यमः तन्मांसं भवति, यो अणिष्ठः तन्मनः । - छान्दोग्योपनिषत् ६-५-१

अशितम् अन्नं त्रेधा विभज्यते । अन्ने यः स्थविष्ठो धातुः तत् पुरीषं भवति, यो मध्यमो
धातुः तत् मांसं भवति, यः अणिष्ठो धातुः तत् मनो भवति ॥

'अन्नानुगुणा बुद्धिः' इति हि प्रसिद्धम् ? इममेव अर्थम् अयं मन्त्रः उपदिशति । भुक्तः आहारः सर्वोऽपि
जाठराग्निना पक्वः सन् त्रेधा परिणमते । स च स्थूलः, मध्यमः, सूक्ष्मः इति त्रेधा विभज्यते ॥

भुक्तस्य अन्नस्य स्थूलो भागः मलं भवति । मलरूपेण स भागः शरीरात् बहिरागच्छति । मध्यमो
धातुः रसरक्तमांसमेदोऽस्थि मज्जावीर्यरूपाय परिणमते । अथ सूक्ष्मो धातुः नाडीद्वारेण हृदयं
प्रविश्य तेन मनो भवति । शुद्धेन सात्त्विकेन हितमितेन आहारेण मनोऽपि शुद्धं भवति । तस्मात्
साधकैः यथासाध्यं सात्त्विका एव आहाराः स्वीकार्याः ॥