अन्योऽप्येवं यो...

विकिसूक्तिः तः

अद्यापि ‘इदं’ सर्वेषां साध्यमेव

अन्योऽप्येवं यो विदध्यात्ममेव । - काठकोपनिषत् २-३-१८

इदानीमपि अन्योऽपि मनुष्यः यः कश्चित् नचिकेतोवत् आत्मानं
जानाति चेत्, सोऽपि ब्रह्मप्राप्तः सन् पापविमुक्तो भवति ॥

उपनिषदां सन्देशं तत्रत्यगुरुशिष्यसंवादं च शृण्वतां बहूनां जनानां
मनसि एषः महान् प्रश्नः उद्भवति, यदुत “अस्मादृशानां तादृशं
श्रेष्ठं ब्रह्मज्ञानं वा तादृशो मोक्षो वा लभ्येत किम् ? दुर्बलानामस्माकं
तादृशी मुक्तिः प्राप्येत वा ? इति ॥

अस्य प्रश्नस्य प्रतिवचनं वदत्ययं काठकोपनिषन्मन्त्रः । “ज्ञात्वा
सर्वो मुक्तो भवति” इति । नचिकेताः मृत्योः आत्मतत्त्वं विज्ञाय
मुक्तोऽभवत् । तद्वदेव यः कश्चिदपि मुच्येत । आत्मज्ञानं वा
मोक्षो वा न कस्यापि मानवविशेषस्य स्वाम्यम् । सर्वेषामपि स्वरूपं
तत् । मधुरं खाद्यं भक्षितवतः सर्वस्य जिह्वायां माधुर्यं भवति ।
स्पृष्टवन्तं सर्वमपि अग्निः दहत्येव । एवमेव आत्मवित् सर्वोऽपि
मुच्यते एव । स्वात्मानं विज्ञातुं सर्वस्यापि स्वातन्त्र्यमस्त्येव ।
मोक्षो हि नाम सर्वस्यापि पुरुषस्य जन्मसिद्धं स्वाम्यं स्वभावश्च ॥

"https://sa.wikiquote.org/w/index.php?title=अन्योऽप्येवं_यो...&oldid=16282" इत्यस्माद् प्रतिप्राप्तम्