अभयं वै जनक प्राप्तोसि...

विकिसूक्तिः तः

ज्ञानमेव मुक्तिः

अभयं वै जनक प्राप्तोसि इति होवाच भगवान् याज्ञवल्क्यः । - बृहदारण्यकोपनिषत् ४-२-४

हे जनकराज, त्वम् इदानीम् अभयं प्राप्तवानसि इति भगवान्
याज्ञवल्क्यः उवाच ।

जनकराजः याज्ञवल्क्यात् आत्मतत्त्वं सम्यक् विज्ञातवान्, तथा च
याज्ञवल्क्याय स्वगुरवे श्रद्धाभक्तितः गुरुदक्षिणां समृद्धां ददाति
जनकराजः । इदानीं जनकस्य मनसि आत्मतत्त्वस्वरूपविषये
नास्ति संशयः । जनकस्य प्रसन्नं मुखारविन्दं पश्यतः गुरोः
याज्ञवल्क्यस्य महान् आनन्दः सञ्जातः । तदा गुरुः स्वशिष्यं
प्रति “हे जनक, त्वम् इदानीम् अभये ब्रह्मणि प्रतिष्ठितोऽसि”
इति सन्तोषेण उक्तवान् ।

“अभयप्राप्तिः” नाम “ब्रह्मनिष्ठता” इत्यर्थः । अद्वितीयं परं ब्रह्मैव
हि अभयं नाम । ब्रह्मज्ञानेन ब्रह्मप्राप्तिः, अभयज्ञानेन अभयप्राप्तिः ।
परमार्थतस्तु अभयज्ञानमेव ब्रह्मप्राप्तिः । वेदान्तेषु ब्रह्मज्ञानमेव
ब्रह्मप्राप्तिः । ज्ञानमेव हि मुक्तिः । अज्ञानेन भयम्, सुज्ञानेन अभयम् ।
सद्गुरूपदेशश्रवणेन ब्रह्मज्ञानं मुक्तिश्च लभ्यते ॥