अभयं सर्वभूतेभ्यो...

विकिसूक्तिः तः

सुभाषितम्

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥

विष्णुपुराणम्] ३/९/३१

abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ ।
tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit ॥

पदच्छेदः

अभयं, सर्वभूतेभ्यः, दत्त्वा, यः, चरते, मुनिः, तस्य, अपि, सर्वभूतेभ्यः, न, भयं, विद्यते, क्वचित् ।


तात्पर्यम्

मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति । तस्य अन्यस्मात् कस्मात् अपि भयं न भवति । यत् भावयति तत् भवति । वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च ।


आङ्ग्लार्थः

That sage who gives refuge to all living beings and wanders about, has nothing to fear from any quarter.

"https://sa.wikiquote.org/w/index.php?title=अभयं_सर्वभूतेभ्यो...&oldid=17457" इत्यस्माद् प्रतिप्राप्तम्