अर्थं सुखं कीर्तिरपीह मा भूत्...

विकिसूक्तिः तः

सुभाषितम्

अर्थं सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः ।
निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥

सुभाषिततत्नाकरः ५१-५

arthaṁ sukhaṁ kīrtirapīha mā bhūdanartha ēvāstu tathāpi dhīrāḥ ।
nijapratijñāmanurudhyamānā mahōdyamāḥ karma samārabhantē ॥

पदच्छेदः

अर्थं, सुखं, कीर्तिः, अपि, इह, मा, भूत्, अनर्थः, एव, अस्तु, तथा, अपि, धीराः, निजप्रतिज्ञाम्, अनुरुध्यमानाः, महोद्यमाः, कर्म, समारभन्ते ।


तात्पर्यम्

जीवने धनम्, सुखम्, यशः किमपि न भवति चेदपि, केवलम् अनर्थमेव भवति चेदपि धीराः स्वकार्यं न त्यजन्ति, महत्कार्यं कुर्वन्त एव भवन्ति ।


आङ्ग्लार्थः

Persons who are brave, industrious and with firm determination , are not deterred by not having wealth, happiness and fame in society or by other harmful incidents being faced by them, and byadhering to their commitment proceed with the work taken in hand by them.